|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.62. अध्यायः 062
Mahabharata - Bhishma Parva - Chapter Topics
भीमसेनादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-62-0x(4130)(41388)
दैवमेव परं मन्ये पौरुषादपि सञ्जय।
यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते ॥ 6-62-1(41389)
नित्यं हि मामकांस्तात हतानेव हि शंससि।
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान् ॥ 6-62-2(41390)
`विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान्।'
हीनान्पुरुषकारेण मामकानद्य सञ्जय ।
पातितान्पात्यमानांश्च हतानेव च शंससि ॥ 6-62-3(41391)
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति।
पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ॥ 6-62-4(41392)
सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च।
श्रोष्यामि सततं तात दुःसहानि बहूनि च ॥ 6-62-5(41393)
तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् ।
मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ॥ 6-62-6(41394)
सञ्जय उवाच। 6-62-7x(4131)
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्।
श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ 6-62-7(41395)
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः।
पीडयामास संक्रुद्धो मद्राधिपतिमायसैःक ॥ 6-62-8(41396)
तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् ।
न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ॥ 6-62-9(41397)
नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा।
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥ 6-62-10(41398)
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ 6-62-11(41399)
अथैनं शरवर्षेण च्छादयामास संयुगे।
गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ॥ 6-62-12(41400)
अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते ।
अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥ 6-62-13(41401)
ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः ।
आर्तायनिममेयात्मा विव्याध निशितैः शरैः ॥ 6-62-14(41402)
ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे।
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे॥ 6-62-15(41403)
दुर्योधनो विकर्णश्च दुःशासनविविंशती।
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ॥ 6-62-16(41404)
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत।
एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥ 6-62-17(41405)
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥ 6-62-18(41406)
धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् ।
नानारूपाणि शस्त्राणि विसृजन्तो विशांपते ॥ 6-62-19(41407)
अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः।
ते वै समेयुः संग्रामे राजन्दुर्मन्त्रिते तव ॥ 6-62-20(41408)
तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये।
तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ॥ 6-62-21(41409)
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः।
अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥ 6-62-22(41410)
ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।
अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ॥ 6-62-23(41411)
अन्योन्यस्पर्धया राजञ्ज्ञातयः संगता मिथः ।
महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः ॥ 6-62-24(41412)
दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे ।
विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ॥ 6-62-25(41413)
दुर्मर्षणश्च विंशत्या चित्रसेनश्च प़ञ्चभिः ।
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥ 6-62-26(41414)
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा।
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ॥ 6-62-27(41415)
एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ।
सत्यव्रतं च समरे पुरुमित्रं च भारत ॥ 6-62-28(41416)
अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः।
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ॥ 6-62-29(41417)
अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्।
ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ ॥ 6-62-30(41418)
शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ ।
छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः ॥ 6-62-31(41419)
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः ।
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ 6-62-32(41420)
तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्।
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ 6-62-33(41421)
दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ 6-62-34(41422)
गजानीकेन सहितस्तेन राजा सुयोधनाः ।
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ 6-62-35(41423)
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।
गदापाणिरवारोहद्रथांत्सिंह इवोन्नदन् ॥ 6-62-36(41424)
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्।
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ 6-62-37(41425)
स गजान्गदया निघ्नन्व्यचरत्समरे बली।
भीमसेनो महाबाहुः सवज्र इव वासवः ॥ 6-62-38(41426)
तस्य नादेन महता मनोहृदयकम्पिना ।
व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः ॥ 6-62-39(41427)
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-62-40(41428)
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्।
अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान् ॥ 6-62-41(41429)
नाकुलिस्तु शतानीकः समरे शत्रुपूगहा ।
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः।
न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम् ॥ 6-62-42(41430)
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः ।
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥ 6-62-43(41431)
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः।
अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव ॥ 6-62-44(41432)
धृष्टद्युम्नहतानन्यानपश्याम महागजान्।
पततः पात्यमानांश्च पार्षतेन महात्मना ॥ 6-62-45(41433)
मागधोऽथ महीपालो गजमैरावणोपमम्।
प्रेषयामास समरे सौभद्रस्य रथं प्रति॥ 6-62-46(41434)
तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् ।
जघानैकेषुणा वीरःत सौभद्रः परवीरहा ॥ 6-62-47(41435)
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः।
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः॥ 6-62-48(41436)
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः।
व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव ॥ 6-62-49(41437)
एकप्रहारनिहतान्भीमसेनेन दन्तिनः।
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ 6-62-50(41438)
भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान्।
भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान् ॥ 6-62-51(41439)
नदतः सीदतश्चान्यान्विमुखान्समरे गतान्।
विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान् ॥ 6-62-52(41440)
भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् ।
अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान् ॥ 6-62-53(41441)
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।
विह्नलन्तो गता भूमिं शैला इव धरातले ॥ 6-62-54(41442)
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ 6-62-55(41443)
गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः ।
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत् ॥ 6-62-56(41444)
संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।
सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम् ॥ 6-62-57(41445)
तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः ।
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥ 6-62-58(41446)
शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः ।
कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत ॥ 6-62-59(41447)
व्यायच्छमानं गदया दिक्षु सर्वासु भारत।
अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम् ॥ 6-62-60(41448)
यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् ।
अपश्याम महाराय रौद्रां विशसनीं गदाम् ॥ 6-62-61(41449)
विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ 6-62-62(41450)
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत्।
तथा भीमो गजानीकं गदया समकालयत् ॥ 6-62-63(41451)
गदया वध्यमानास्ते मार्गणैश्च समन्ततः।
स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव ॥ 6-62-64(41452)
महावात इवाभ्राणि विधमित्वा स वारणान्।
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ ॥ 6-62-65(41453)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे द्विषष्टितमोऽद्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-62-14 आर्तायनिं ऋतायनपुत्रं शल्यम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|